________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७६४ (A)
܀܀܀܀܀
www.kobatirth.org
एवं तैः साधुभिर्गुरोर्निवेदिते गुर्वादेशेन गीता गीतार्था वृषभा इत्यर्थः, गत्वा तकं साधुमानयन्ति । आनीतस्य च तस्य तेषां मृगाणां बालशैक्षकाणां पुरतः कैतवेन गुरुणा खरण्टना कर्तव्या । यथा- 'क्रियायां क्रियमाणायां किमर्थं त्वं नष्टः ? यदि कथमप्यनर्थे अपतिष्यत् ततः कुगतावगमिष्यदिति । एवं गुरुणा कैतवेन खरण्टनायां कृतायां वृषभास्तं निवारयन्ति वत्स ! मा भूय एवं कार्षीरिति, पृच्छन्ति च मृगपुरतः तां वार्ताम् ॥ १६१०॥ कथमित्याह
कत्थ गतोऽणापुच्छा ?, साहुकिलिट्ठा तुमं विमग्गंता । माणं अज्जो ! वंदह, तिण्णि उ वरिसाणि दंडो से ॥ १६११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'त्वमनापृच्छ्य कुत्र गतः ? क्लिष्टाः खलु त्वां विमार्गयन्तः साधवः । स प्राह'न स्मरामि भगवन् ! कथमहं नष्टः ? कुत्र वा गतः ? केवलं कर्मोपशमेन स्वस्थीभूतो जानामि स्म, यथा अहं विनिर्गत इति, ततो युष्मत्पादान्तिकमागतः ' । तत आचार्यैः साधवो वक्तव्याः मा आर्या अमुं साधुं त्रीन् संवत्सरान् वन्दध्वमेष अस्य साधोर्दण्डः ॥१६११ ॥
१. बालशैक्षणिकाणां- पु. प्रे. मु. ॥
For Private and Personal Use Only
सूत्र २३ गाथा १६११-१६१६ यतनादण्डादिः
७६४ (A)