________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७६३ (B)
***
ܢ܀܀܀܀܀
www.kobatirth.org
सन् उद्भ्रामे उद्भ्रामकभिक्षाचरग्रामे स्वगणागमः स्वगणसम्बन्धिनां साधूनामागमस्तेषामात्मानं दर्शयति ? किमुक्तं भवति उद्भ्रामकभिक्षाप्रचुरे ग्रामे ये स्वाचार्यसम्बन्धिनः साधवो भिक्षाचर्यार्थमागतास्तेषामात्मानमुपदर्शयति । तं दृष्ट्वा यः परुषयति, तस्य प्रायश्चित्तं चतुर्गुरुकाः । किन्तु तैर्गत्वा सूरिभ्यः कथनीयं दृष्टोऽस्माभिः स पूर्वनष्ट इति । यच्च तेनोक्तं तदपि कथनीयम् ॥ १६०८ ॥
किं तेनोक्तम् ? इत्यत आह
बेति य लज्जाए अहं, न तरामि गंतु गुरुसमीवं तु ।
न य तत्थ जं कयं मे, निग्गमणं चेव सुमरामि ॥ १६०९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आत्मनि साधूनामुपदर्शिते स तान् साधून् प्रति ब्रूते- लज्जया अहं गुरुसमीपं गंतुं न शक्नोमि, न च तत्र वसतौ यन्मया कृतं तत्स्मरामि केवलं निर्गमनमेव स्मरामि ॥१६०९ ॥
तेहिं निवेइए गुरुणो, गीया गंतूण आणयंति तयं । मिगपुरतो उ खरंटण, वसभ निवारेति मा भूओ ॥ १६१० ॥
For Private and Personal Use Only
गाथा
१६०४-१६१० विविधयतनाः
७६३ (B)