________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमतो भाटीं विना, तदभावे भाट्यापीत्यर्थः । अथवा प्रथमतो बहिस्तदसम्भवेऽन्तरपि प्रतिसेवते, वर्जयन् सदेशादिकाः समानदेशशिष्यिण्यादिकाः ॥ १६०६॥
X
श्री व्यवहार
सूत्रम् तृतीय उद्देशक: ७६३ (A)
फासुपडोयारेणं, न यऽभिक्खनिसेव जाव छम्मासा। चउगुरु छम्मासाणं, परतो मूलं मुणेयव्वं ॥ १६०७ ॥
स च तत्र तथा तिष्ठन् प्रासुकप्रत्यवतारेण तिष्ठति, यथाशक्ति अशनादिकं स्नानादिकं च | अप्रासुकं वर्जयतीत्यर्थः । न च अभीक्ष्णनिषेवणम् अभीक्ष्णप्रतिसेवनां करोति। स च तथा प्रतिसेवमानो यावत् षण्मासास्तावद्यदि तिष्ठति, ततः प्रत्यागतस्य षण्मासेभ्य आरतो वा प्रतिनिवृत्तस्य प्रायश्चित्तं चतुर्गुरु, षण्णां मासानां परतः प्रतिनिवृत्तस्य मूलं ज्ञातव्यम्॥ १६०७॥
आगंतुं अन्नगणे, सोहि काऊण वूढपच्छित्तो। सगणाऽऽगममुब्भामे दरिसेती ताहे अप्पाणं ॥ १६०८ ॥
एवं मोहचिकित्सां कृत्वा तत्पूर्वनिक्षिप्तमाचारभाण्डमादाय अन्यगणे आगत्य प्रविश्य : शोधिं कृत्वा आलोचनां प्रदाय यत्प्रायश्चित्तं लभते तत् तत्रैव वहति । ततो व्यूढप्रायश्चित्तः
गाथा १६०४-१६१० विविधयतनाः
७६३ (A)
For Private and Personal Use Only