________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
/H
व्यवहार
सूत्रम् तृतीय उद्देशकः
७६२ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
पणपण्णिगादि किढीसु, किंचि अदेंतो उ अहव अदसादी। अपयाए अंतोछग्गुरु बाहिं तू चउगुरुनिसेगे ॥ १६०५ ॥ सपया अंतो मूलं छेदो पुण होइ बाहिरनिसेगे। अणुपुट्विं पडिसेवइ, वजंतो सदेसमादीणि ॥ १६०६॥
पञ्चकपर्दादयः पण्यं यस्या एकवारप्रतिसेवने सा पञ्चपण्यका, आदिशब्दाद् | दशपण्यिकादिपरिग्रहः, तासु कृष्टासु प्रतिरिक्तं स्थानं नीतासु प्रतिसेवनां करोति। कथम्भूतः सन् ? इत्याह- किञ्चित् अददानः। एतच्चाविरतसम्यग्दृष्टिकाया यथाभद्रिकाया वा विषये द्रष्टव्यम्। सा हि लज्जातो न किञ्चिदपि याचते। अथ पञ्चपण्यिकादिका भाटी विना नेच्छति प्रतिसेवनां, तत आह-अथवा भाटीं विनाऽनिच्छायां अदशादीनि वस्त्राणि प्रयच्छति। प्रथमतोऽदशानि ददाति, तान्यनिच्छन्त्या योग्यान्यपि तस्या दीयन्ते। सा च प्रतिसेवितुमिष्यमाणा द्विधा सम्भवति- अप्रजा सप्रजा च, अनपत्या सापत्या चेत्यर्थः । तत्राऽप्रजाया ग्रामस्याऽन्तर्यदि शुक्रनिषेकं करोति ततः प्रत्यागतस्य प्रायश्चित्तं षड् गुरु। अथ बहिः ततश्चतुर्गुरु। अथ सप्रजाया ग्रामस्याऽन्तः करोति ततो मूलम्, अथ बहिस्तर्हि छेदः। तथा आनुपूर्व्या क्रमेण
गाथा १६०४-१६१० विविधयतनाः
७६२ (B)
For Private and Personal Use Only