________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशक:
७६२ (A)
܀܀܀܀܀
www.kobatirth.org
हितार्थिकः प्रवचनविराधनाया आत्मन उड्डाहस्य च संरक्षणपरायणो यत्र विहरणेति साधुत्वेन विहृतवान्, यत्र वा वाचना दत्ता, यत्र च क्षपणकत्वमकार्षीदातापना वा कृता, येषु च गच्छेषु वैयावृत्त्यं कृतं ते यत्र विहरन्ति, यत्र च गृहस्थत्वेन स्थितवान्, यत्र वा धर्मकथा प्रबन्धेनानेकशः कृता, यत्र वा रथयात्रादिनिमित्तमनेकेषामाचार्याणां समवसरणं मेलापकः । एतानि स्थानानि प्रतिपतन् प्रतिसेवितुकामो वर्जयेत् ॥१६०३ ॥
गंतूण अन्नदेसं, वज्जित्ता पुव्ववण्णिए देसे ।
लिंगविवेगं काउं, स सड्डि किढी पण्णवित्ताणं ॥ १६०४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गत्वा अन्यदेशं परदेशं वर्जयित्वा पूर्ववर्णितान् अनन्तरगाथोपात्तान् देशान् लिङ्गविवेकं कृत्वा आत्मीयमाचारभाण्डं समस्तमपि क्वचिन्निक्षिप्यान्यलिङ्गं गृहिलिङ्गं वा गृहीत्वा सड्ढत्ति अविरतसम्यग्दृष्टिका यथाभद्रिका वा प्रज्ञाप्य सम्भोगोचितरीत्या बोधयित्वा किढीति कृष्यते संभोगाय प्रतिरिक्ते स्थाने नीयते ॥ १६०४ ॥
तदभावे विध्यन्तरमाह
For Private and Personal Use Only
गाथा
१६०४-१६१०
विविधयतनाः
७६२ (A)