________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७५६ (A)
तिर्यग्योनावचित्तायां मैथुनकर्म एकं द्वौ त्रीन् वारान् करोति । तथाप्यनुपशान्तौ कृत्रिमायां मनुष्ययोनौ, तथाप्यतिष्ठति भंगदोच्चेणंति द्वितीयेन भङ्गेन स्वलिङ्गेन परलिङ्गे इत्येवंरूपेण स्वगण एव स्थितेन शून्यगृहे शून्यदेवकुलिकायां वा निरपायेऽपवादपदतः प्राकृतायाः स्त्रिया भृतिप्रदानतः, तत्र प्रवेशितायां एकं द्वौ त्रीन् वारान् मैथुनमाचरति। ततः शुद्धस्योपशान्तवेद-स्याकरणाय उपस्थितस्य अभ्युत्थितस्य, गाथायां सप्तमी षष्ठ्यर्थे, प्रायश्चित्तं चत्वारो गुरुकाः। ॥ १५९३॥
सूत्रम्- गणावच्छेदए गणावच्छेयत्तं अनिक्खिवित्ता मेहुणधम्म पडिसेवेजा, जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥१४ ॥
"गणावच्छेदए गणावच्छेयत्तं" इत्यादि, गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनधर्म मैथुनप्रकारं प्रतिसेवते, तस्य यावजीवं यावत्प्राणधारणं करोति तावत् तत्प्रत्ययं गणावच्छेदकत्वमनिक्षिप्य यन्मैथुनधर्मप्रतिसेवनं तत्कारणं न कल्पते आचार्यत्वं वा उपाध्यायत्वं वा प्रवर्तित्वं वा स्थविरत्वं [गणावच्छेदत्वं] वा उद्देष्टुमनुज्ञातुं स्वयं वा धारयितुम्, इदमेकं सूत्रं, द्वितीयमाह
सूत्र १४-१७
गाथा |१५९४-१५९६
पदप्राप्तेर योग्यतादिः
७५६ (A)
For Private and Personal Use Only