________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तामेवाह
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७५५ (B)
.
तत्थ तिगिच्छाए विहिं, निव्वीतियमादियं अइकंते। उवभुत्तथेरसहितो, अट्ठाणादीसु तो पच्छा ॥ १५९२ ॥
तत्र चिकित्सायां विधिं निर्विकृतिकादिकमतिक्रान्ते ततः पश्चाद् ये उपभुक्ता उपभुक्तभोगाः स्थविरास्तैः सहितः समेतः अस्थानादिषु वेश्यापाटकादिरूपेषु वसतिं गृह्णाति । तत्र च विधिः प्रागेवोक्तः ॥ १५९२ ॥
तथाप्यनुपशान्तौ अट्ठाण सद्दहत्थे, अच्चित्ततिरिक्खभंगदोच्चेण। एगदुगतिण्णिवारा, सुद्धस्स उवट्ठिए गुरुगा ॥ १५९३ ॥
अस्थाने वेश्यापाटके यत्र परिचारणाशब्दाः श्रूयन्ते तत्र शब्दहस्ते प्रविचारणाशब्दपूर्णे | उपभक्तभोगस्थविरैः सह तिष्ठति, तत्रापि विधिः स एव प्रागुक्तः। तथाप्यतिष्ठति कुत्रिमायां
.
गाथा
१५८७-१५९३
भङ्गेषु यतना
७५५ (B)
For Private and Personal Use Only