________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
www.kobatirth.org
सलिंगेण सलिंगे सेवंते चरमं तु होति बोद्धव्वं ।
सलिंग अन्नलिंगे देवी कुलकण्णगा चरिमं । । १५८८ ।।
सूत्रम्
उद्देश:
स्वलिङ्गेन स्वलिङ्गे वर्तमानां यदि सेवते तदा तस्य भवति बोद्धव्यं प्रायश्चित्तं चरमं तृतीय पाराञ्चितरूपम् । स्वलिङ्गेनान्यलिङ्गे इत्येवंरूपे द्वितीये भङ्गे यदि सेवते देवीं राजाग्रमहिषीमुपलक्षणमेतत्, अन्यां वा राजस्त्रियं कुलकन्यकां वा, गाथायां विभक्तिलोपः प्राकृतत्वात्, तदा प्रायश्चित्तं चरमं पाराञ्चितम् ।।१५८८ ॥
७५४ (B)
नवमं तु अमच्चीए, विहवीए कुलच्चियाए मूलं तु । परलिंगेण सलिंगे, सेवंते होइ इणमो तु ॥ १५८९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्वलिङ्गेन अमात्याया अमात्यभार्यायाः सेवने प्रायश्चित्तं नवमम् अनवस्थाप्यं, विधवायाः कुलच्चियाए इति कुलवध्वा उपलक्षणमेतत् अन्यस्याश्चाविशेषितायाः प्राकृतस्त्रियाः सेवने मूलं पुनर्व्रतारोपणं प्रायश्चित्तमुक्तम्। [ उक्ता ] द्वितीयभङ्गे भजना, तृतीये [तां] विवक्षुरिदमाह- परलिङ्गेन स्वलिङ्गे वर्त्तमानां सेवमानस्य भवति इयं वक्ष्यमाणा
भजना ।। १५८९ ॥
For Private and Personal Use Only
गाथा
१५८७-१५९३ भङ्गेषु
यतना
७५४ (B)