________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७५४ (A)
समानसङ्घवर्तिनी च। कुलकन्यका विधवा च प्रतीता। वधूका लघुकुलवधूका। एताः परिहरेत्। अपरिहरतः प्रायश्चित्तम्। तथा स्वलिङ्गेन न सेवेतान्यथा तत्रापि प्रायश्चित्तम् ॥१५८६॥
तथा चाहलिंगम्मि उ चउभंगो पढमे भंगम्मि होइ चरिमपर्य। मूलं चउत्थभंगे, बितिए ततिए य भयणा उ ॥ १५८७ ॥ लिले लिङ्गविषये चतुर्भङ्गी। तद्यथा- स्वलिङ्गेन स्वलिङ्गवर्तमानां सेवते १, स्वलिङ्गेनाऽन्यलिङ्गे २, अन्यलिङ्गेन स्वलिङ्गे३, अन्यलिङ्गेनान्यलिङ्गे४, तत्र प्रथमे भने सेवमानस्य भवति प्रायश्चित्तं चरिमपदं पाराञ्चितलक्षणम्। चतुर्थे भने अन्यलिङ्गेनाऽन्यलिङ्गे इत्येवंरूपे सेवमानस्य मूलं नाम प्रायश्चित्तम्। द्वितीये तृतीये च भङ्गे भावनायां भजना विकल्पना, क्वचित् किञ्चित् प्रायश्चित्तम् ॥१५८७॥
गाथा १५८७-१५९३
भङ्गेषु यतना
७५४ (A)
तामेव विवक्षुः प्रथमभङ्गगतामपि भावनामाह
For Private and Personal Use Only