________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः
७५३ (B)
सह वसतिं गृह्णाति। तत्राऽऽलिङ्गन-चुम्बनादि दृष्ट्वा यदि शुक्रपुद्गलविनिर्गमे वेद उपशाम्यति | ततः सुन्दरम्। एवं त्रीन् वारान्। तथाप्यतिष्ठति यत्र प्रतिशब्दाः श्रूयन्ते तत्र शब्दप्रतिबद्धायां | वसतौ स्थविरैः सममवतिष्ठति। तत्र यदि परिचारणाशब्दमाकर्ण्य निबिडाध्यवसायभावतः शुक्रपुद्गलक्षरणे उपशाम्यति ततः सुन्दरम्। एवमत्रापि त्रीन् वारान्। तथाप्यनुपशान्तौ दूष्यपलाशपत्रान्तरितमेकं द्वौ त्रीन् वारान् हस्तकर्म करोति। तथाप्यनुपशाम्यति कृत्रिमायां तिर्यग्योनावचित्तायामेकं द्वौ त्रीन् वारान् मैथुनकर्म समाचरति। तथाप्यनुपशान्तौ मनुष्ययोनावचित्तायां, तथाप्यतिष्ठति सचित्ते वक्ष्यमाणविधिना सञ्चरति। तत्र सचित्ते पुनरिमानि वक्ष्यमाणानि स्थानानि प्रयत्नतो वर्जयेत्।। १५८५॥
तान्येवाहसदेससिस्सिणी सझंतिया सिस्सिणी कुलगणे य। संघे य कुलकन्नगा य विहवा, वहुगा य तहा सलिंगेणं ॥ १५८६ ॥
सदेशा समानदेशजा सिस्सिणी स्वहस्तदीक्षिता सझंतिया भगिन्यादिका। तथा | शिष्यिणी कुले गणे संघे च। किमुक्तं भवति?- समानकुलवर्तिनी समानगणवर्तिनी
गाथा |१५८३-१५८६
ब्रह्मचर्यपालनोपायाः
७५३ (B)
For Private and Personal Use Only