________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७५२ (B)
निव्वीयं ओम तवे, वेयावच्चे तहेव ठाणे य। आहिंडणे य मंडलि, चोयगवयणं च कप्पट्ठी ॥ १५८४ ॥
प्रथमतो निर्विकृतिक कारयितव्यः । तत्र यदि निर्विकृतिकं तपः कुर्वतो नोपशाम्यति वेदस्तर्हि निर्विकृतिकेनाऽवमौदर्यं कारयितव्यः, तथाप्यनुपशाम्यति तपश्चतुर्थादिकं कार्यते, तथाप्यतिष्ठति वैयावृत्त्यं कारणीयः, वैयावृत्त्येनाप्यतिष्ठति स्थानेन ऊर्ध्वस्थानेन तिष्ठति, तथाप्यनुपशाम्यति आहिण्डनं कार्यते देशहिण्डकानां सहायो दीयते इत्यर्थः। तत्र यदि पथपरिश्रमेणोपशान्तो भवति वेदस्ततः सुन्दरम्, अथ नोपशाम्यति ततो यदि स बहुश्रुतस्तर्हि स सूत्रमण्डली अर्थमंडलीं च दाप्यते। अत्रार्थे चोदकवचनं, यथा किमर्थं स मण्डली दाप्यते। सूरिराह-दृष्टान्तोऽत्र कप्पट्ठी इति कूलवधूः। __एगो सेट्ठी। तस्स पुत्तो धणोवजणनिमित्तं देसंतरं गतो। भारिया सेट्ठीसमीवे मुक्का। सा य सुहभोयण-तंबोल-विलेवण-मंडण-पसाहणरया घरवावारमकुणंती अन्नया उम्मत्तिया जाया दासचेडिं भणइ - पुरिसं मग्गेह। तीए सेट्ठिणो कहियं । तेण चिंतियं- जावजवि न विणस्सइ ताव चिंतेमि उवायं, सेटिणी भणिया-कलहं काऊण तमं गच्छ, जेणेसा घरवावारे
गाथा १५८३-१५८६
ब्रह्मचर्यपालनोपायाः
७५२ (B)
For Private and Personal Use Only