________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
तृतीय
उद्देशकः ७५२ (A)
राज्ञा बंधे आदिष्टे, यदि वा घाते प्रहारे, अथवा प्रमारणे कुमरणमारणे अन्येषु च । दण्डेषु हस्त-पादच्छेदादिषु दारुणेष्वादिष्टेषु लोके त्रीन् वारान् राजा पृच्छ्यते। किमर्थम् ? | इत्यत आह-पमत्तमत्ते पुण चित्तहेउं इति प्रमत्तेन व्याक्षिप्तेन यदि वा मद्यपानेन मत्तेनाऽऽदिष्टं | भवेत्, पश्चादुपशान्तस्य पुनश्चित्तमुपजायते, यथा 'मा मार्यताम्' इति, वारत्रयमनापृच्छायां |* स रुष्येत् 'किमिति स मारितः?' इति। एवं यथा राजा लोकेऽपि त्रीन्वारान् पृच्छ्यते तथाऽऽचार्योऽपि ॥ १५८२ ॥
आलोइयम्मि गुरुणा, तस्स चिकिच्छा विहीए कायव्वा। निव्वीतिगमादीया, नायव्वा कमेणिमेणं तु ॥ १५८३ ॥
गाथा
१५८३-१५८६ आलोचिते वारत्रयपृच्छायां कृतायां गुरुणा आचार्येण तस्य उदितवेदस्य साधोर्विधिना | ब्रह्मचर्यचिकित्सा कर्त्तव्या। सा चिकित्सा निर्विकृतिकादिका क्रमेणानेन वक्ष्यमाणेन पालनोपायाः ज्ञातव्या।।१५८३॥
७५२ (A)
तमेव क्रममाह
For Private and Personal Use Only