________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
७५१ (B)
सा च पृच्छा त्रीन् वारान् कर्तव्या तथा चाहअहवा सइ दो वा वी, आयरिए पुच्छ अकडजोगी वा। गुरुगा तिण्णि उ वारे, तम्हा पुच्छेज आयरिए ॥ १५८१॥
अथवा सकृद् एकवारं यद्याचार्यान् पृच्छति तथापि प्रायश्चित्तं चतुर्गुरुकाः । अथ द्वौ | वारौ आपृच्छति न तृतीयमपि वारं तदाऽपि चतुर्गुरुकाः । अथवा वारत्रयपृच्छायामपि कृतायां यदि अकृतयोगी यतनायोगमकृत्वा गच्छति तदानीमपि चतुर्गुरुकाः। यत एवमेकं द्वौ वा वारावपृच्छायां प्रायश्चित्तं तस्मात् त्रीन् वारान् आचार्यान् पृच्छेत्, लोकेऽपि तथादर्शनात् ॥१५८१॥
तथा चाहबंधे य घाते य पमारणे य, दंडेसु अन्नेसु य दारुणेसु। पमत्तमत्ते पुण चित्तहेउं लोए वि पुच्छंति उ तिण्णि वारे ॥ १५८२ ॥
गाथा १५७७-१५८२
अब्रह्मरक्षणोपायादिः
७५१ (B)
For Private and Personal Use Only