________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार -
सूत्रम्
तृतीय
उद्देश :
७४५ (A)
www.kobatirth.org
नवश्च डहरकश्च तरुणश्च समाहारो द्वन्द्वः । तस्य पुनः सङ्गहार्थमाचार्ये विष्कम्भते मृते विधिना नियमेनान्यस्य गणधरस्याऽभिषेकः कर्तव्यः । अविधिना अभिषेककरणे प्रायश्चित्तं चत्वारो गुरुका मासाः । कोऽत्र विधि: ? इति चेत्, उच्यते- आचार्यः कालगतो न प्रकाश्य यावदन्यो गणधरो न स्थापितः । तथा चाह- पच्छन्नेत्ति, आचार्ये कालगते प्रच्छन्ने प्रदेशेऽभिषेकः करणीयः ॥ १५६२ ॥
एतदेवाह -
आयरिए कालगए, न पगासेज्ज अट्ठविए गणहरम्मि । रणे व अणभिसित्ते, रज्जक्खोभो तहा गच्छे ॥ १५६३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अस्थापितेऽन्यस्मिन् गणधरे आचार्यः कालगतो न प्रकाश्यते । अत्र दृष्टान्तो राजा । तथाहि - यथा राजा कालगतस्तावन्न प्रकाश्यते यावदन्यो नाभिषिच्यते । अन्यथा अनभिषिक्ते राज्ञि यथा राज्यक्षोभो भवति, दायादैः परस्परविरोधतः सर्वं राज्यं विलुप्यते इत्यर्थः । तथा गच्छेऽप्यन्यस्मिन् अस्थापिते गणधरे यद्याचार्यः कालगतः प्रकाश्यते तदा गच्छक्षोभो भवति ॥ १५६३ ॥
For Private and Personal Use Only
गाथा
१५६०-१५६५
आचायें कालगते
सामाचारी
७४५ (A)