________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशक :
७४४ (B)
܀܀܀܀
www.kobatirth.org
प्रव्रज्यापर्यायेण त्रीणि वर्षाणि नाद्याप्युत्तीर्णः स नवकः, तस्मिन्नवके तरुणे मध्यमे स्थविरे चशब्दाद् डहरे च एवं पूर्वोक्तेनैव प्रकारेण संग्रहं ब्रुवते । किमुक्तं भवति ? नवकस्य वा डहरस्य वा तरुणस्य वा मध्यमस्य वा स्थविरस्य वा नवकत्वादेव नियमादभिनवाचार्योंपाध्यायसंग्रहो वेदितव्य इति ॥ १५६० ॥
वा खलु मज्झिमथेरे, गीयमगीए य होइ नायव्वं ।
उद्दिसणा उ अगीए, पुव्वायरिए उ गीयत्थे ॥ १५६१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वाशब्दो विभाषायाम् । खलु निश्चितम् त्रिवर्षपर्यायोत्तीर्णत्वेनाऽनवके मध्यमे स्थविरे च प्रत्येकं गीते अगीते च विभाषणं नानात्वं ज्ञातव्यम् तदेवाह - उद्दिसणा उ अगीते अगीतार्थे उद्देशना । इयमत्र भावना - ये मध्यमाः स्थविरा वा त्रिवर्षपर्यायोत्तीर्णा अप्यगीतार्थास्ते नियमाद् यः स्थापितो गणधरस्तस्य शिष्या बध्यन्त इति । गीतार्थे पुनः स्थविरे मध्यमे च पूर्वाचार्ये पूर्वाचार्यसंग्रहः ये मध्यमाः स्थविरा वा गीतार्थास्ते पूर्वाचार्यदिशं धारयन्तीति ॥ १५६१ ॥
नव- डहर-तरुणगस्सा, विहीए विसुंभियम्मि आयरिए । पच्छन्ने अभिसेओ, नियमा पुण संगहट्ठाए ॥ १५६२ ॥
For Private and Personal Use Only
***
गाथा १५६०-१५६५ आचार्ये कालगते
सामाचारी
७४४ (B)