________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७४४ (A)
प्रव्रज्यापर्यायेण यस्य त्रीणि वर्षाणि नाधिकमित्येष त्रिवर्षों भवति नवः । जन्मपर्यायेण चत्वारि वर्षाणि आरभ्य यावद् आषोडशकं वर्षम्, अत्राऽऽङ् मर्यादायां यथा आपाटलिपुत्राद् । वृष्टो देवः, किमुक्तं भवति ? पाटलीपुत्रं मर्यादीकृत्य आराद् मेघो वृष्ट इत्यर्थः । ततोऽयमर्थ:-- यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद्वर्षादक् डहरकं ब्रुवते समयविदः । ततो जन्मपर्यायेण षोडशवर्षाण्यारभ्य यावच्चत्वारिंशद्वर्षाणि तावत्तरुणः। ततः परं यावत्सप्ततिरेकेन वर्षेणोना तावन्मध्यमः। ततः परं सप्ततेरारभ्य स्थविरः शेषः ॥१५५९॥
अणवस्सवि डहरग-तरुणगस्स नियमेण संगहं बिंति। एमेव तरुणमझे, थेरम्मि य संगहो नवए ॥ १५६० ॥
यः प्रव्रज्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यते। तस्याऽनवकस्यापि आस्तां नवकस्येत्यपिशब्दार्थः। डहरकः सन् तरुणको डहरकतरुणकः, तस्य द्वादशवर्षाण्यारभ्य यावत् पञ्चदशवर्षाणि तावदित्यर्थः; नियमेन संग्रहमभिनवस्थापिताऽऽचार्योपाध्यायानां सङ्ग्रहणं ब्रवते, अभिनवस्थापिताचार्योपाध्यायसङ्ग्रहीतेन तेनाऽवश्यं वर्तितव्यमिति भावः। तथा यः
गाथा १५६०-१५६५
आचार्ये कालगते सामाचारी
७४४ (A)
१. आराद् वृष्टो देव इत्यत्र- मो.। आरतो वृष्टो देव इत्यत्र- वा. पु.॥
For Private and Personal Use Only