________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७४३ (B)
सूत्रम्। अथवा पूर्वसूत्रेषु पर्यायोऽधिकृतोऽस्मिन्नपि च सूत्रे एष एव पर्यायः, तथा च नवडहर-तरुणग्रहणम्। यदि वाऽनन्तरसूत्रे य आचार्यः स्थापनीय उक्तः स कीदृशानां शिष्याणां स्थाप्यते? इतीदमनेन सूत्रेणोच्यते ॥१५५८॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
निर्ग्रन्थस्य णमिति वाक्यालङ्कारे नव-डहर-तरुणस्य नवस्य डहरस्य तरुणस्य वा आचार्यसहित उपाध्याय आचार्योपाध्यायः, आचार्य उपाध्यायश्चेत्यर्थः, विष्कम्नीयात् नियेत, ततः से तस्य नव-डहर-तरुणस्यानाचार्योपाध्यायस्य सतः भवितुं वर्तितुं न कल्पते; किन्तु पूर्वमाचार्यम् उद्देशाप्य स्थापयित्वा ततः पश्चादुपाध्यायमुद्देशाप्य साचार्योपाध्यायस्य सतो भवितुं कल्पते। से किमाहु भंते? इति से शब्दोऽथशब्दार्थः अथ भदन्त ! किं कस्मात्कारणात् भगवन्त एवमाहुः? सूरिराह-द्वाभ्यामाचार्योपाध्यायाभ्यां संगृहीतो द्विसंगृहीतः श्रमणो निर्ग्रन्थः सदा भवति। तद्यथा-आचार्येणोपाध्यायेन च। एष सूत्रसङ्क्षपार्थः । व्यासार्थं तु भाष्यकृद्विवक्षुः नवादिशब्दानामर्थमाहतिवरिसो होइ नवो, आसोलसगं तु डहरगं बेंति। तरुणो चत्ता सत्तरूणमज्झिमो थेरतो सेसो ॥ १५५९ ॥
सूत्र ११
गाथा १५५५-१५५९ आचार्योपाध्यायसंग्रहेस्थेयम्
७४३ (B)
For Private and Personal Use Only