________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७४२ (A)
लिङ्गेन रजोहरणमुखपोतिकादिना श्रमणरूपधारिण: कारयित्वा पठनीयम्। ते च तत्रापि तथा पठन्तो न वन्दनादीनि हापयन्ति ॥ १५५४॥
आहार-उवहि-सेज्जा-एसणमादीसु होइ जइयव्वं। अणुमोयणकारावण, सिक्खत्ति पदम्मि तो सुद्धो ॥ १५५५ ॥
तेन तेषां समीपे पठता आहारोपधि-शय्यानामेषणादिषु एषण-गवेषणादिषु भवति | यतितव्यं, तथा अनुमोदने कारापणे च न च करण-कारापणाऽनुमोदनदोषैः स परिगृह्यते। यतः 'शिक्षा मयाऽस्य समीपे गृह्यते' इति द्वितीये पदे वर्तते ततः स शुद्ध इति। इयमत्र भावना- यदि स पार्श्वस्थः पश्चात्कृतादिः पाठयन्त्रात्मनः आहारोपध्यादिकमात्मनैवोत्पादयति ततः सुन्दरम् ॥ १५५५॥
अथात्मना नोत्पादयति तत आहचोयइ से परिवार, अकरेमाणं भणाति वा सड्ढे। अव्वोच्छित्तिकरस्स हु, सुयभत्तीए कुणह पूयं ॥ १५५६ ॥
सूत्र ११
गाथा १५५५-१५५९ आचार्योपाध्यायसंग्रहेस्थेयम्
७४२ (A)
For Private and Personal Use Only