________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७४१ (B)|
वा असाम्भोगिकानामन्तिके, तेषामप्यसति अभावे संविज्ञपाक्षिकेषु पार्श्वस्थादिषु प्रथममेव प्रतिक्रान्ताभ्युत्थितेषु, तेषामप्यभावे सरूपिषु संयतरूपिषु प्रतिक्रान्ताभ्युत्थितेषु पश्चात्कृतेषु, तेषामप्यभावे प्रथममेव सरूपिषु सिद्धेषु सिद्धपुत्रेषु ॥ १५५३॥
एतत्प्रतिक्रान्ताभ्युत्थितानधिकृत्योक्तं, तदभावेऽन्यत्र विधिमाहमुंडं व धरेमाणे, सिहं व फेडंत अणिच्छ ससिहे वि। लिंगेणमसागारिए ण वंदणादीणि हावेंति ॥ १५५४ ॥
ते पश्चात्कृतादयो यदि न प्रतिक्रान्ताभ्युत्थिताः किन्तु लिङ्गतो गृहस्था वर्तन्ते तदा अन्यत्र गत्वा तान् मुण्डं वा धरमाणान् धारयत: कारयति, यदि पुनः सशिखाकाः सन्ति, ततः शिखां स्फेटयति। अथ शिखास्फेटनं ते नेच्छन्ति ततः सशिखाकानपि स्थापयित्वा इत्वरं श्रमणलिङ्गं तेषां समर्पयति, व्याख्यानवेलायां च चोलपट्टकं मुखपोतिकां च ग्राहयति। तेनापि तेषां तथाभूतानां पार्श्वे पठता यथाप्रतिरूपः श्रुतविनयः प्रयोक्तव्यः । तैः पुनरिणीयः। अथ ते अन्यत्र गमनं नेच्छन्ति तर्हि तत्रैवाऽसागारिके सागारिकसम्पातरहिते प्रदेशविशेषे
गाथा १५४९-१५५४ अध्ययनविधिः
७४१ (B)
For Private and Personal Use Only