________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः
७४१ (A)
अधुना "असंविग्गे" त्यादि व्याख्यायते- असंविग्नान् सारूपिकान् संयतरूपधारिणः सिद्धपुत्रप्रच्छन्नान् सिद्धपुत्रान् पश्चात्कृतांश्चाऽऽश्रयेत्। कथंभूतान् ? इत्याह-प्रतिक्रान्ताभ्युत्थितान् असंयमव्यापारात् प्रतिक्रान्तान् संयम प्रत्यभ्युत्थितान् तेषामप्यसति अभावे अन्यत्र यत्र ते न ज्ञायन्ते तत्र गत्वा तेषामन्तिके अधीते, अन्यत्र तेषामगमने तत्रैव पठेद् यत्र ते स्वव्यापारेण स्थिता वर्तन्ते। इयमत्र भावना-पार्श्वस्थादीनां संविग्नपाक्षिकाणामभावे ये पूर्व संविग्ना गीतार्था आसीरन् तेषां पश्चात्कृतानां पुनः प्रतिक्रान्ताभ्युत्थितानामन्तिके गृह्णीयात्, तेषामप्यभावे संयमयोगं प्रत्यभ्युत्थितानां सिद्धपुत्राणामन्तिके, तेषामप्यभावेऽन्यत्र तान् संयतरूपकान् कृत्वा तेषामन्तिके, अन्यत्राऽगमने तत्रैव तान् तथारूपान् कृत्वा सागारिकाणामभावे तेषामन्तिकेऽधीते ॥ १५५२॥
एतदेवाहसगणे व परगणे वा, मणुण्ण अण्णेसि वा वि असतीए। संविग्गपक्खिएसुं, सरूविसिद्धेसु पढमं तु ॥ १५५३ ॥ स्वगणे गणधरपदानहंगीतार्थानामन्तिके, परगणे वा मनोज्ञे साम्भोगिके, तदभावे अन्येषां
गाथा |१५४९-१५५४ अध्ययनविधिः
X.
७४१ (A)
For Private and Personal Use Only