________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः
७४० (B)
देसो सुत्तमधीतं, न तु अत्थो अत्थतो व असमत्ती। सगणे अणरिहगीता-ऽसतीए गिण्हेजिमेहिंतो ॥ १५५१ ॥
प्रकल्पस्य द्विधा शरीरं सूत्रमर्थश्च। तत्र देश: सूत्रमधीतं न त्वर्थः। अथवा अर्थोऽपि कियानधिगतः केवलमर्थतः समाप्ति भूत्। ततो ये स्वगणे आचार्यलक्षणविहीनतया गीतार्था अपि सन्तोऽनर्हाः आचार्यपदायोग्यास्तेभ्य: आचार्यपदोपविष्टः सन् अर्थं गृह्णीयात्। अथ स्वगणे गीतार्था न विद्यन्ते तर्हि तेषामसति अभावे एभ्यो वक्ष्यमाणेभ्यो गृह्णीयात् ॥१५५१॥
तानेवाहसंविग्गमसंविग्गे, सारूवियसिद्धपुत्तपच्छन्ने। पंडिक्कंतअब्भुट्ठिए, असती अन्नत्थ तत्थेव ॥ १५५२ ॥
स्वगणे गीतार्थानामभावे अन्येषां साम्भोगिकानां समसुख-दु:खानां गीतार्थानामन्तिके गत्वाऽधीते। तेषामप्यभावेऽन्यसाम्भोगिकानां गच्छं प्रविश्य पठन्ति, तेषामप्यभावे पार्श्वस्थादीनां संविग्नपाक्षिकाणामन्तिके, केवलं तान् संयमयोगेष्वभ्युत्थाप्य, एतावता 'संविग्ने ति व्याख्यातम्।
गाथा |१५४९-१५५४ अध्ययनविधिः
७४० (B)
For Private and Personal Use Only