________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
वर्षेषु परिपूर्णेषु तस्य तद् निरुद्धवर्षपर्यायत्वमभवत्; स त्रिषु पूर्णेषु वा अपूर्णेषु वा वर्षेषु निरुद्धेषु आचार्ये कालगते अन्यो बहुश्रुतोऽपि लक्षणसम्पूर्णो न विद्यते। स चासमाप्तश्रुतोऽपि लक्षणयुक्तो ग्रहणधारणसमर्थश्चेति स्थाप्यते, बहुश्रुतोऽप्यन्यो न स्थाप्यते। किन्तु सोऽसमात श्रुतोऽपि लक्षणयुक्तः इति, अत्र किं कारणम्? अत आह लक्खणेत्यादि, लोके वेदे समये च विशारदा नायकत्वपदाध्यारोपे प्रशंसन्ति लक्षणयुक्तं, नेतरं बहुश्रुतमपि, ततः स एव स्थाप्यते॥ १५४४॥
तृतीय उद्देशकः ७३८ (B)
अत्र पर आहकिं अम्ह लक्खणेहिं, तव-संजमसुट्ठियाण समणाणं?। गच्छविवड्डिनिमित्तं, इच्छिज्जइ सो जहा कुमरो ॥ १५४५ ॥ किमस्माकं श्रमणानां तपः-संयमसुस्थितानां लक्षणैः? केवलं लक्षणहीनोऽपि , बहुश्रुतः स्थाप्यतां येनास्माकं स्वाध्यायवृद्धिर्भवति। आचार्य आह-सोऽल्पश्रुतोऽपि लक्षणयुक्ततया गणधरपदस्थापनायामिष्यते गच्छविवृद्धिनिमित्तं, यथा राज्यवृद्धिनिमित्तं राज्ये कुमारः ॥ १५४५॥
गाथा १५४४-१५४८ नायकगुणाः
७३८ (B)
For Private and Personal Use Only