________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७३९ (A)
एतदेव भावयतिबहुपुत्तो नरवई सामुदं भणति कं ठवेमि निवं? । दोसगुण एगणेगे, सोविय तेसिं परिकहेइ ॥ १५४६ ॥
कोऽपि बहुपुत्रको नरपतिः सामुद्रं सामुद्रिकलक्षणवेत्तारं भणति, यथा- कमहं कुमार नृपं स्थापयामि? एवमुक्तः सन् सोऽपि तेषां कुमाराणां यस्य दोषो गुणो वा एकोऽनेके वा विद्यन्ते तस्य तत्सर्वं परिकथयति ॥ १५४६ ॥
तत्र दोषा इमे - निद्भूमगं च डमरं, मारीदुब्भिक्खचोरपउराई। धण-धन्न-कोसहाणी, बलवति पच्चंतरायाणो ॥ १५४७ ॥
निर्धूमकं नाम अपलक्षणं यत्प्रभावतो राज्यमनुशासति रन्धनीयमेव न भवति। डमरं यद्वशाद्राज्यं डमरबहुलं भवति, प्रभूतस्वदेशोत्थविप्लवोपेतमुपजायते इत्यर्थः। मारिः
गाथा १५४४-१५४८ नायकगुणाः
७३९ (A)
For Private and Personal Use Only