________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
܀܀܀܀܀܀܀
www.kobatirth.org
सूत्रम्
उद्देशकः
बहुश्रुते लक्षणसम्पूर्णे असति । तस्य च आचार्यतया उपाध्यायतया वोद्देष्टुमभिप्रेतस्य आचारप्रकल्पस्य निशीथाध्ययनस्य देशोऽधीतो भवति । सूत्रमधीतमर्थोऽद्यापि नाधीतः, यदि वाऽर्थो न परिपूर्णोऽद्याप्यधीत इत्यर्थः । से य इत्यादि, स च देशमधीतवान् 'पाश्चात्त्यं तृतीय स्थितं देशमध्येष्ये ' इति चिन्तयन् अधीयते तत एवं सति कल्पते आचार्योपाध्यायतया उद्देष्टुं, यदि पुनः सोऽध्येष्ये इति चिन्तयन्नपि नाधीयत इति संभाव्यते । तत एवं न कल्पते आचार्योपाध्यायतया उद्देष्टुम् । एष सूत्रसङ्क्षेपार्थः ॥ तत्र 'अल्पवर्षपर्यायस्याऽसमाप्तश्रुतस्य चापवादतो गणधरपदानुज्ञार्थमिदं सूत्रम्' इत्युक्तमतोऽल्पवर्षपर्यायत्वमसमाप्तश्रुतत्वं च भाष्यकृद् भावयति
७३८ (A)
܀܀܀܀܀܀
Acharya Shri Kailassagarsuri Gyanmandir
तिण्णी जस्स अपुण्णा, वासा पुण्णेहि वा तिहि उ तं तु । वासेहि निरुद्धेहिं, लक्खणजुत्तं पसंसंति ॥ १५४४ ॥
यस्य त्रीणि वर्षाणि व्रतपर्यायतयाऽद्याप्यपरिपूर्णानि एतस्यामवस्थायां, यदि वा त्रिषु
१. ०ष्टुमपि तस्य-खं. वा. पु. मु. ॥
For Private and Personal Use Only
गाथा १५४४-१५४८ नायकगुणाः
७३८ (A)