________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७३७ (B)
'निरुद्धवासपरियाए समणे निग्गंथे' इत्यादि। अस्य सम्बन्धमाहअपवदितं तु निरुद्धे, आयरियत्तं तु पुव्वपरियाए। इमं तो पुण अववादो, असमत्तसुयस्स तरुणस्स ॥ १५४३ ॥
निरुद्ध विनाशिते पूर्वपर्याये सत्याचार्यत्वमपवदितं प्रव्रज्यादिवस एवाचार्यत्वमनुज्ञातमनन्तरसूत्रे । अयमनेन सूत्रेणाभिधास्यमानः पुनरपवादोऽसमाप्तश्रुतस्य तरुणस्य, किमुक्तं भवति? अल्पवर्षपर्यायस्याप्यसमाप्तश्रुतस्यापि चापवादतो गणधरत्वमनुज्ञायते। ततोऽनेनाप्यपवादाभिधानतो भवति पूर्वसूत्रेणास्य सम्बन्धः ॥ १५४३ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
सूत्र १०
गाथा १५३९-१५४३ असमाप्तश्रुतस्य आचार्यत्वम्
निरुद्धो विनाशितो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः। एतदुक्तं भवति- त्रिषु वर्षेष्वपरिपूर्णेषु यस्य निरुद्धः पूर्वपर्यायः, यदि वा पूर्णेषु त्रिषु वर्षेषु [अ]समाप्तश्रुतस्य निरुद्धवर्षपर्याय इति श्रमणो निर्ग्रन्थः कल्पते आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देष्टुम्। क्व? इत्याह- समुच्छेदकल्पे आचार्य कालगते, अन्यस्मिंश्च
७३७ (B)
For Private and Personal Use Only