________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
तृतीय उद्देशकः ७३२ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
सव्वत्थ अविसमत्तेण, कारगो होइ सम्भुदी नियमा । बहुसो य विग्गहेसुं अकासि गणसम्मुदिं सो उ ॥ १५२८ ॥
सर्वत्र सर्वेषु प्रयोजनेषु यो नियमाद् अविषमत्वेन अकुटिलतया कारको भवति सः सम्मुदित्ति पदैकदेशे पदसमुदायोपचारात् सम्मुदिकरः। तान्यपि कुलानि तेन तथारूपाणि कृतानि, न केवलं तेन कुलानि सम्मुदिकराणि कृतानि, किन्तु सोऽपि तुशब्दोऽपिशब्दार्थः, बहुशः बहुभिः प्रकारैर्विग्रहेषु समुत्पन्नेषु तदुपशमनतः गणस्य गच्छस्य सम्मुदिमकार्षीत्। शेषाणि तु पदानि सुप्रतीतत्वान्न व्याख्यातानि ॥ १५२८ ॥ थिर परिचियपुव्वसुतो, सरीरथामावहारविजढो उ। पुट्विं विणीयकरणो, करेइ सुत्तं सफलमेयं ॥ १५२९ ॥
स्थिरो नाम- अचपलः, परिचितं पूर्वस्मिन्-पूर्व पर्याये श्रुतं यस्य स परिचितपूर्वश्रुतः, यदि वा प्रत्यागतस्यापि स्वाभिधानमिव परिचितं पूर्व-पूर्वपठितं यस्य स तथा ततः पूर्वपदेन | विशेषणसमासः।
गाथा |१५२७-१५३१ अपवादयोग्यस्य
स्वरूपम्
७३२ (B)
For Private and Personal Use Only