________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७३३ (A)
܀܀܀܀
www.kobatirth.org
तथा शरीरस्य स्थाम प्राणस्तस्यापहार:- अपलपनं तेन विजढः-रहितः शरीरस्थामापहाररहितः । किमुक्तं भवति ?- पूर्वं न तेन तथा शारीरं बलं वैयावृत्त्य वाचनादिषु परिहापितमिति । तथा पूर्वं पूर्वपर्याये विनीतानि - विशेषतः संयमयोगेषु नीतानि करणानि मनोवाक्कायलक्षणानि येन स विनीतकरणः संयमयोगादिकं सर्वं तेन पूर्वमपरिहीनं कृतमिति भावः । य ईदृशः पूर्वमासीत् स एतत्सूत्रं सफलं करोति । ईदृशस्य तद्दिवसमाचार्यत्वमुपाध्यायत्वं वा उद्दिश्यते, न शेषस्य, ततो न कश्चित्पूर्वाऽपरविरोध इति भावः ॥ १५२९ ॥
किह पुण तस्स निरुद्धो, परियातो होज्ज तद्दिवसितो उ ? । पच्छाकडसावेक्खो, सण्णाईहिं बलानीतो ॥ १५३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
कथं केन प्रकारेण तस्य पूर्वः पर्यायो निरुद्धः कथं वा तद्दैवसिकस्तद्दिवसभावी पर्यायोऽभवत् ? । अत्रोत्तरमाह- पच्छकडेत्यादि, स्वज्ञातिभिः स्वकीयैः स्वजनैः सापेक्षः गच्छसापेक्षः सन् बलान्नीतः पश्चात्कृतः सोऽभूत्, अतः सर्वं सर्वपृष्टमभूत् ॥ १५३० ॥
एतदेव प्रपञ्चयन्नाह -
For Private and Personal Use Only
गाथा
| १५२७-१५३१ अपवादयोग्यस्य स्वरूपम्
७३३ (A)