________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७३२ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतेन " अत्थि णं थेराणं तथारूवाणि कुलाणि कडाणि" ति व्याख्यातम् । न केवलं तैस्तथारूपाणि कुलानि कृतानि, किन्तु गुरु- बाला - सहादयः, आदिशब्दाद् वृद्धग्लानादिपरिग्रहः, अनेकप्रकारैरुपगृहीताः सङ्ग्रहोपग्रहाभ्यामुपष्टम्भे नीताः ॥ १५२६ ॥
'पत्तियाणी 'ति सुप्रतीतत्वान्न व्याख्यातम्, 'थेज्जाणी 'त्यत्र द्वितीयं व्याख्यानमाह
ताइं पीतिकराई असई अदुवत्ति होंति थेज्जाई ।
वेसिय अणवेक्खाए, जिम्हजढाई ति विस्संभो ॥ १५२७ ॥
अथवेति प्रतीतप्रथमव्याख्यानापेक्षया व्याख्यानान्तरोपदर्शने स्थेयानीति तानि कुलानि नैकं द्वौ वा वारौ प्रीतिकराणि कृतानि किन्त्वसकृदिति । तथा वैश्वासिकानीति कोऽर्थः ? अनपेक्षया स्व- परविशेषाकरणेन प्रभूततराणां संविभागेनेत्यर्थः, व्येष्याणि विशेषतः एषणीयाभिलषनीयानि कृतानि, यतस्तानि जिह्मजढानि जिस माया तया रहितानि कृतानीति तेषु विस्रम्भः विश्वासः विस्रम्भस्थानत्वाच्च व्येष्याणीति ॥ १५२७ ॥
'सम्मुइकराणी 'ति व्याख्यानार्थमाह
For Private and Personal Use Only
गाथा
१५२७-१५३१ ★ अपवादयोग्यस्य स्वरूपम्
७३२ (A)
***