________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५२४ (B)
܀܀܀܀܀܀
www.kobatirth.org
" गीतार्थमिश्रित" इति, तत्र गीतार्थसंयुक्त इति व्याख्येयम्, इतः आभ्यां गीतार्थ - गीतार्थनिश्रिताभ्यामन्यस्तृतीयो विहारो नानुज्ञातो जिनवरेन्द्रैः ॥ ९८३ ॥ तत्र गीतार्थं गीतार्थनिश्रितं च विहारमाह
जिणकप्पितो उ गीयत्थो, परिहारविसुद्धितो वि गीयत्थो । गीयत्थे इड्डिदुगं, सेसा गीयत्थनिस्साए ॥ ९८४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गीतार्था द्विविधाः, तद्यथा - गच्छगता गच्छनिर्गताश्च । तत्र गच्छनिर्गता इमे जिनकल्पिको गीतार्थः, परिहारविशुद्धिकोऽपि गीतार्थः । अपि शब्दाद्यथालन्दकोऽपि प्रतिमाप्रतिपन्नोऽपि च गीतार्थः । अमीषां विहारो गीतार्थः । गीयत्थित्ति गच्छवासे गीतार्थे गीतार्थविषये ऋद्धिद्विकम्, तद्यथा-आचार्य उपाध्यायश्च अथवा आचार्यः, शेषं च चतुष्टयमुपाध्याय- प्रवर्त्ति स्थविर - गणावच्छेदिरूपम् । एतच्च द्विकं स्थाननियुक्तमिति व्यवह्रियते, स्वस्वव्यापारे तेषां नियुक्तत्वात् शेषाः सर्वे अनियुक्ताः । ते यदि गीतार्था यदि वा अगीतार्थाः। सर्वैर्गीतार्थनिश्रया विहर्तव्यम् ॥ ९८४ ॥ अत्र पर आह
For Private and Personal Use Only
܀܀
गाथा
९८२-९८६ विहारप्रकारा गीतार्थगीतार्थनिश्रितादयः
५२४ (B)