________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२४ (A)
आहारादीणऽट्ठा जो उ, विहारो अगीय पासत्थे। जो यावि अणुवउत्तो, विहरति दव्वे विहारो उ ॥ ९८२ ॥
यो नाम आहारादीनाम् आहारोपधिप्रभृतीनामर्थाय उत्पादनाय अगीतानामगीतार्थानां | पार्श्वस्थानां च, गाथायां समाहारो द्वन्द्वः, षष्ठीसप्तम्योरर्थं प्रत्यभेदाच्च सप्तम्या निर्देशः, |: तथा योऽप्यनुपयुक्तः सन् विहरति एष सर्वोऽपि द्रव्ये विहारः। आद्यो द्रव्यनिमित्तत्वाद् द्रव्यविहारः, द्वितीयोऽनुपयुक्तत्वादिति ॥९८२ ॥ उक्तो द्रव्यविहारः। भावविहारो द्विधा आगमतो नोआगमतश्च। तत्राऽऽगमतो विहारशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआगमतो भावविहारो द्विधा गीतार्थो गीतार्थनिश्रितश्च। तथा चाह
गीयत्थो य विहारो, बीओ गीयत्थनिस्सितो होति। एत्तो तत्तिय विहारो, नाणुण्णातो जिणवरेहिं ॥ ९८३॥ विहारः प्रथमो भवति गीतार्थः गीतार्थसाध्वात्मकः। द्वितीयो गीतार्थनिश्रितः। गीतार्थस्य निश्रा आश्रयणं गीतार्थनिश्रा सा सञ्जाता अस्येति गीतार्थनिश्रितः। पाठान्तरम्
गाथा ९८२-९८६ विहारप्रकारा गीतार्थगीतार्थनिश्रितादयः
५२४ (A)
I
For Private and Personal Use Only