________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२३ (B)
विवरीषुः पुनरुच्चरति
नाम ठवणा दविए, भावे य चउव्विहो विहारो होइ। विविहपगारेहिं रयं, हरई जम्हा विहारो उ ॥ ९८१ ॥
नामविहारः, स्थापनाविहारः, द्रव्ये द्रव्यनिमित्तं द्रव्यभूतो वा विहारो द्रव्यविहारः, भावे भावविहारः। एवमेष विहारश्चतुर्विधो भवति। इह च नोआगमतो भावविहारेण गीतार्थेनाधिकारः न शेषैः, ततस्तमधिकृत्य व्युत्पत्तिमाह-यस्माद् विविधैः अनेकैः प्रकारैः रजः कर्म हरति तस्माद्विहार इत्युच्यते। विविधं हियते [मलय० कृ० ५०३] रजः कर्मानेनेति विहार:,अकर्तरि घजिति व्युत्पत्तेः ॥ ९८१॥ सम्प्रति नामादिभेदा व्याख्येयास्तत्र यस्य विहार इति नाम स नामविहारः। स्थापनाविहारश्चित्रकर्मण्यन्यत्र वा आलिख्यमानः स्थापनाविहारः। द्रव्यविहारो द्विधा आगमतो नोआगमतश्च। तत्रागमतो विहारशब्दार्थज्ञाता तत्र चानुपयुक्तः। नोआगमतस्त्रिधा-ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात्। तत्र ज्ञशरीरभव्यशरीरे प्राग्वत्। तद्व्यतिरिक्तमाह
गाथा ९८०-९८१ विहारशब्दस्य निक्षेपाः
५२३ (B)
१. ततस्तानधिकृत्थ - वा. पु. मु. ॥
For Private and Personal Use Only