________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२३ (A)
सम्प्रत्यभिग्रहेण सह भावनाया भङ्गाः- अभिग्रहतः साधर्मिको न भावनातः, समानाभिग्रहो विचित्रभावनाक: श्रावकादिः१ भावनातः साधर्मिको नाभिग्रहतः, विचित्राभिग्रहः श्रावकादि:२। अभिग्रहतोऽपि भावनातोऽपि समानाभिग्रह-भावनाक: श्रावकादिः३। नाभिग्रहतो नापि भावनातः एष भङ्गः शून्यः ४॥ ९७९ ॥ तदेवमुक्ता भङ्गाः। साम्प्रतममीषां भङ्गानां विषयविशेषप्रतिपादनार्थमाह
पत्तेयबुद्ध निण्हव उवासए केवली य आसज्ज। खइयाइए य भावे, पडुच्च भंगे उ जोएज्जा ॥ ९८० ॥
प्रत्येकबुद्धान् निह्नवान् उपासकान् केवलिनश्चाऽऽश्रित्य तथा क्षायिकादींश्च भावान् प्रतीत्य आश्रित्य भङ्गकान् अनन्तरोदितान् योजयेत्। तद्यथा- न प्रवचनतः | साधर्मिको न लिङ्गतः, एष भङ्गः प्रत्येकबुद्धान् केवलिनश्च जिनानाश्रित्य योजनीयः। लिङ्गतो न प्रवचनत इत्ययं निवान्, प्रवचनतो न लिङ्गत इत्येष श्रावकान्, प्रवचनतो न दर्शनत इत्यादयस्तु क्षायिक-क्षायोपशमिकदर्शन-ज्ञान-चारित्रादीन्याश्रित्य योजयितव्याः, ते च तथैव यथास्थानं योजिता एवेति ॥९८०॥ सम्प्रति ये विहारे नामादयो भेदा उक्तास्तान
गाथा ९८०-९८१ विहारशब्दस्य निक्षेपाः
५२३ (A)
For Private and Personal Use Only