________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः
५२२ (B)
܀܀܀܀܀܀܀
*****
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिको न ज्ञानतः, समानचारित्री एक: केवली एकश्छद्मस्थः २ । ज्ञानतोऽपि चारित्रतोऽपि समानज्ञान - चारित्री साधुः ३ । न ज्ञानतो नापि चारित्रतः शून्यः ४ । तथा ज्ञानतो नाभिग्रहतः, समानज्ञानो विचित्राभिग्रहः श्रावकादिः १ । अभिग्रहतो न ज्ञानतः, समानाभिग्रहो विचित्रज्ञानी साधुस्तीर्थकर ः प्रत्येकबुद्धो वा २ । ज्ञानतोऽप्यभिग्रहतोऽपि समानज्ञानाभिग्रही साध्वादिः ३ । न ज्ञानतो नाप्यभिग्रहतः, एष शून्यः ४ । तथा ज्ञानतो न भावनातः, समानज्ञानो विचित्र भावनाकः श्रावकादिः १ । भावनातो न ज्ञानतः, समानभावनाको विचित्रज्ञानी श्रावकादिः २ । ज्ञानतोपि भावनातोऽपि समानज्ञानभावनाक: श्रावकादिः ३ । न ज्ञानतो नापि भावनातः, एष शून्यः ४ । उक्ता ज्ञानेन सह चारित्रादिषु भङ्गाः ।
सम्प्रति ज्ञानपदं विमुच्य चारित्रपदं गृहीत्वा तेन सहाभिग्रह भावनयोर्भङ्गा उच्यन्तेचरणतः साधर्मिको नाभिग्रहतः, समानचरणो विचित्राभिग्रहः साधुः १ । अभिग्रहत: साधर्मिको न चरणतः, श्रावकादिः २ । चरणतोऽपि अभिग्रहतोऽपि साधुः ३ । न चरणो नाप्यभिग्रहतः, एष शून्यः ४ । तथा चरणतो न भावनातः, विचित्रभावनाकः साधुः १ । भावनातो न चरणतः, श्रावकः समानभावनाकः साधुर्वा विसदृशचरणः २ । चरणतोऽपि भावनातोऽपि समानचरण - भावनाकः साधुः ३ । न चरणतो नापि भावनातः, एष शून्यः ४ ।
For Private and Personal Use Only
गाथा
९८० - ९८१ विहारशब्दस्य निक्षेपाः
५२२ (B)