________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५२२ (A) |
܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिको न दर्शनतः समानज्ञानी विभिन्नदर्शनी २ । दर्शनतोऽपि ज्ञानतोऽपि, समानदर्शनज्ञानी ३ । न दर्शनतो नापि ज्ञानतः, शून्यो भङ्गः ४ । तथा दर्शनतः साधर्मिको न चारित्रतः, समानदर्शनी श्रावकः १ । चारित्रतो न दर्शनतः, समानचारित्री विभिन्नदर्शनी साधुः २। चारित्रतोऽपि दर्शनतोऽपि समानदर्शनचारित्री साधुः ३ । न चारित्रतो नापि दर्शनतः, एष शून्यः ४ । तथा दर्शनतो साधर्मिको न अभिग्रहतः, समानदर्शनी विचित्राभिग्रहः श्रावकः साधुर्वा १ । अभिग्रहतो न दर्शनतः, समानाभिग्रही विचित्रदर्शन: श्रावकादिः २ । दर्शनतोऽपि अभिग्रहतोऽपि समानदर्शनाभिग्रही श्रावकादिः ३ । न दर्शनतो नाप्यभिग्रहतः, एषः शून्यः ४ । तथा दर्शनतो न भावनातः, समानदर्शनो विचित्रभावनाक: श्रावकादिः १ । भावनातो न दर्शनतः, समानभावनाको विचित्रदर्शनः श्रावकादिः ३ । दर्शनतोऽपि भावनातोऽपि समानदर्शन - भावनाकः श्रावकादिः ३ । न दर्शनतो नापि भावनातः, एष शून्यः ४ । तदेवमुक्ता दर्शनेनापि सह ज्ञानादिषु भङ्गाः ।
ज्ञानत:
अधुना दर्शनपदमपहाय ज्ञानपदमभिगृह्य तेन सह चारित्रादिषु प्रदर्श्यन्ते - साधर्मिको न चारित्रतः, समानज्ञानो विचित्रचारित्रः साधुः यदि वा श्रावकः १ | चारित्रतः
For Private and Personal Use Only
***
गाथा ९८० - ९८१ विहारशब्दस्य निक्षेपा:
५२२ (A)