________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२१ (B)
ज्ञानतः, निह्नवो विभिन्नज्ञानी वा साधुः१। ज्ञानतो न लिङ्गतः, समानज्ञानी श्रावकः प्रत्येकबुद्धस्तीर्थकरो वा २। लिङ्गतोऽपि ज्ञानतोपि, समानज्ञानी साधुः ३ । न लिङ्गतोऽपि नापि ज्ञानतः, एष शून्य: ४। तथा लिङ्गतो न चारित्रतः, निह्नवो विषमचारित्री वा साधुः १। चारित्रतो न लिङ्गतः, प्रत्येकबुद्धस्तीर्थकरो वा २। चारित्रतोऽपि लिङ्गतोऽपि, समानचारित्री साधु:३। न लिङ्गतो नापि चारित्रतः, एष शून्य:४। तथा लिङ्गतो नाभिग्रहतः, विचित्राभिग्रही साधुर्निहवो वा १ अभिग्रहतो न लिङ्गतः, समानाभिग्रही श्रावकः प्रत्येकबुद्धस्तीर्थकरो वा २। लिङ्गतोऽप्यभिग्रहतोऽपि, समानाभिग्रही साधुः ३ न लिङ्गतो नाप्यभिग्रहतः, एष शून्यः ४। तथा लिङ्गतः, साधर्मिको न भावनातः, विषमभावनाकः साधुः निह्नवो वा १। भावनातो न लिङ्गतः, समानभावनाकः श्रावकः प्रत्येकबुद्धस्तीर्थकरो वा २। लिङ्गतोऽपि भावनातोऽपि समानभावनाकः साधुः, न लिङ्गतो नापि भावनातः, एष शून्यः ४। तदेवमुक्ता लिङ्गेन सह दर्शनादिषु भङ्गाः ।
सम्प्रति तद् लिङ्गपदं त्यक्त्वा दर्शनपदमभिगृह्य तेन सह ज्ञानादिषु उच्यन्ते-दर्शनतः | साधर्मिको न ज्ञानतः, क्षायिकदर्शनी एकः केवलज्ञानी एको द्विज्ञानीति १। ज्ञानतः
गाथा ९७९ निक्षेपे चतुर्भङ्गी
५२१ (B)
For Private and Personal Use Only