________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२१ (A)
नापि ज्ञानतः इति चतुर्थः, एष शून्यः ४। तथा प्रवचनतः साधर्मिको न चारित्रतः, श्रावकः१ । चारित्रतो न प्रवचनतः तीर्थकरः प्रत्येकबुद्धो वा २। प्रवचनतोऽपि चारित्रतोऽपि, साधुः३। न प्रवचनतो नापि चारित्रतः, एष शून्य:४। तथा प्रवचनतः साधर्मिको नाभिग्रहतः, . श्रावको यतिर्वा, उभयोरप्यन्यान्याभिग्रहयुक्तत्वात् १। अभिग्रहतो न प्रवचनतः, निह्नवस्तीर्थकर: प्रत्येकबुद्धो वा, उक्तं च- 'साहम्मभिग्गहेणं नो पवयणनिण्ह तित्थ पत्तेया' [पिण्डनि. गा. १४९ पू०] इति २। प्रवचनतोऽप्यभिग्रहतोऽपि, श्रावको यति समानाभिग्रहः ३। न प्रवचनतो नाप्यभिग्रहत इति शून्य: ४। तथा प्रवचनतः साधर्मिको न भावनातः, भिन्नभावनाकः श्रावको यतिर्वा १। भावनात: साधर्मिको न प्रवचनतः, समानभावनाकस्तीर्थकरः प्रत्येकबुद्धो निह्नवो वा २। प्रवचनतोऽपि भावनातोऽपि समानभावनाक: श्रावको यतिर्वा ३। न प्रवचनतोऽपि न भावनातः, एष शून्य: ४। उक्ता प्रवचनेन सह दर्शनादिषु भङ्गाः।
सम्प्रति लिङ्गेन सहोच्यन्ते- लिङ्गतः साधर्मिको न दर्शनतः, निह्नवः१। दर्शनतः साधर्मिको न लिङ्गतः, प्रत्येकबुद्धस्तीर्थकरो वा २। लिङ्गतोऽपि दर्शनतोऽपि, समानदर्शनी साधुः ३। न लिङ्गतोऽपि नापि दर्शनतः, एष शून्यः ४। तथा लिङ्गतः साधर्मिको न
गाथा ९७९ निक्षेपे चतुर्भङ्गी
५२१ (A)
For Private and Personal Use Only