________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२० (B)
योजयेत् । तत्राप्युपरितनेषु सर्वेषु भक्तेषु तदधस्तनं पदं त्यजेत्, अग्रेतनमनन्तरमाश्रयेत्, तत्राप्ययमेव क्रमः। एवं तावद्वाच्यं यावदन्तिमपदद्वयचतुर्भङ्गिका। इह लिङ्गेन सह दर्शनादिषु भङ्गसूचा कृता, तत्र लिङ्गग्रहणमुपलक्षणम्, ततः प्रवचनेनापि सह भङ्गा द्रष्टव्याः। ते चामी
प्रवचनतः साधर्मिको न दर्शनतः, एकः क्षायिके [एक:] औपशमिके क्षायोपशमिके वा। उक्तं च 'विसरिसदसणजुत्ता पवयणसाहम्मिया न दंसणतो'[पिण्ड. नि.गा.१४७ पू.] इति १। दर्शनतः साधर्मिको न प्रवचनतः, तीर्थकराः प्रत्येकबुद्धाश्च, तेषां सङ्घानन्तवर्तित्वाद् । आह च- 'तित्थयरा पत्तेया नो पवयण दंसण साहम्मी' [पि.नि.गा.१४७ उत्त.] प्रवचनतोऽपि साधर्मिको दर्शनतोऽपि, समानदर्शनी सङ्घमध्यवर्तीति ३। न प्रवचनतो नापि दर्शनत इति चतुर्थः, एष शून्यः ४। उक्ता प्रवचनेन सह दर्शनस्य चतुर्भङ्गिका। सम्प्रति ज्ञानस्योच्यते- प्रवचनतः साधर्मिको न ज्ञानतः, एको द्विज्ञानी एकस्त्रिज्ञानी चतुर्ज्ञानी केवलज्ञानी वा १। ज्ञानतः साधर्मिको न प्रवचनतः तीर्थकरः प्रत्येकबुद्धो वा २। प्रवचनतोऽपि ज्ञानतोऽपि इति तृतीयः,[साधुः श्रावको वा समानज्ञानी]३। न प्रवचनतो
गाथा ९७९ निक्षेपे चतुर्भङ्गी
५२० (B)
For Private and Personal Use Only