________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२० (A)
श्रावकाः प्रवचनतः साधर्मिका भवन्ति। तेषां सङ्घान्तर्भूतत्वात्, न तु लिङ्गतः रजोहरणादिलिङ्गरहितत्वात् २। तृतीय-चतुर्थौ तु भङ्गौ सुप्रतीतत्वान्नोक्तौ। तौ चेमौप्रवचनतोऽपि साधर्मिको लिङ्गतोऽपि साधर्मिकः साधुः एष तृतीयः३। न प्रवचनतो नापि लिङ्गत इति चतुर्थः, ऐष शून्यो भङ्ग:४। ॥९७८ ॥ तदेवं लिङ्गस्य प्रवचनेन सह चतुर्भङ्गिकोक्ता । सम्प्रति दर्शनादिभिः सह चतुर्भङ्गिकाप्रतिपादनार्थमाह
एमेव य लिंगेण उ, दंसणमादीस होंति भंगा उ। भइएसु उवरिमेसुं, हेटेल्लपयं तु छड्डेज्जा ॥ ९७९ ॥
एवमेव प्रवचनगतेन प्रकारेण लिङ्गेन सह दर्शनादिषु भङ्गा भवन्ति ज्ञातव्याः। * भक्तेषु च उपरितनेषु सर्वेष्वपि भावनापर्यन्तेषु अधस्तनं लिङ्गलक्षणपदं त्यजेत्, त्यक्त्वा च तदनन्तरं द्वितीयपदमभिगृह्णीयात्, अभिगृह्य च तेनापि सह चतुर्भङ्गिकाः क्रमेण १. जेभा. खंभा. प्रत्योः तृतीय-चतुर्थभङ्गदर्शिका गाथा ९७८ पश्चाद् वर्तते ॥ २. पिंडनि. वृत्तौ श्री मलयगिरिसूरिणैव चतुर्थभनो दर्शितोऽस्तिा । ३.इतः ७७९ गाथा पूर्वं लाडनू संस्करणे एषा गाथोपलभ्यते'साधूतु लिंग पवयण, णोभयतो कुतित्थ-तित्थयरमादी । उववजिऊण एवं, भावेतव्वो तु सव्वे वी ।। ९९२।।
गाथा ९७९ निक्षेपे चतुर्भङ्गी
५२० (A)
For Private and Personal Use Only