________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५१९ (B)
विहारश्च ॥९७७॥ तत्र लिङ्गादिषु प्रवचनादिभिः सह प्रत्येकं चतुर्भङ्गी विभावयिषुः प्रथमतो लिङ्गप्रवचनचतुर्भङ्गीसूचामाह
'लिंगेण उ साहम्मी, नो पवयणतो य निण्हगा सव्वे। पवयणसाहम्मी पुण, न लिंगे दस होंति ससिहागा ॥ ९७८॥
लिङ्गेन रजोहरणादिना साधर्मिकः नो नैव प्रवचनत इत्येको भङ्गः, के ते? इत्याह सर्वे निह्नवाः, तेषां सङ्घबाह्यत्वात् रजोहरणादिलिङ्गोपेतत्वाच्च१, तथा प्रवचनतः साधर्मिको न पुनः लिङ्गे लिङ्गतः एष द्वितीयः । के ते एवम्भूताः? इत्याह-दश भवन्ति सशिखाका: अमुण्डितशिरस्काः, श्रावका इति गम्यते। श्रावका हि दर्शनव्रतादिप्रतिमाभेदेन एकादशविधा भवन्ति। तत्र दश सकेशाः, एकादशप्रतिमाप्रतिपन्नस्तु लुञ्चितशिराः श्रमणभूतो भवति। ततस्तद्व्यवच्छेदाय सशिखाकग्रहणम्, एते हि दश सशिखाकाः
गाथा ९७४-९७८ साधर्मिकस्य निक्षेपाः
५१९ (B)
१. लाडनू टिप्पणे पृ. ९८ टि. १३ अ. स. प्रतिषुः ३७८ गाथास्थाने अन्य गाथो पलभ्यते- 'पवयणतो लिंगेण य चउभंगो एत्थ होति णायव्वो । जो जत्थ निवडति तहिं भगंम्मि सो उ कायव्वो ॥ जे.भा. खंभा. प्रत्योरपि एका गाथा अधिका वर्तते इति-पु. प्रे. ॥
For Private and Personal Use Only