________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय
उद्देशकः
५१९ (A)
चारित्रिण इत्यादि। दव्वादी उ अभिग्गहत्ति अभिग्रहतः साधर्मिको द्रव्यादौ वेदितव्यः, तद्यथा-द्रव्याऽभिग्रही द्रव्याभिग्रहिणः। एवं क्षेत्र-काल-भावेष्वपि भाव्यम्। तुशब्द: अनुक्तसमुच्चयार्थः, तेन षष्ठादिक्षपणाभिग्रही षष्ठादिक्षपणाभिग्रहिणः इत्याद्यपि द्रष्टव्यम्। भावनातः साधर्मिकोऽनित्यत्वादौ, यथा एकोऽप्यनित्यत्वभावनां भावयत्यपरोऽप्यनित्यत्वभावनामिति अनित्यत्वभावनासाधर्मिकः, एवं शेषास्वपि भावनासु द्रष्टव्यम्॥ ९७६ ॥ तदेवमुक्तः साधर्मिकस्य द्वादशको निक्षेपः। सम्प्रति यदुक्तं 'लिङ्गे भवन्ति भङ्गाश्चत्वारः' इति तदेतद् व्याचिख्यासुराह
साहम्मिएहिं कहिएहिं लिंगादी होइ चउभंगो। नाम ठवणा दविए, भावविहारे य चत्तारि ॥ ९७७ ॥
साधर्मिकेषु कथितेषु सत्सु, गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात्, लिङ्गादौ | प्रवचनादिभिः सह भवति प्रत्येकं चतुर्भङ्गी, गाथायां पुंस्त्वमाषत्वात्। विहारे च ये | चत्वारो भेदाः प्रागुक्तास्ते इमे, तद्यथा- नामविहारः स्थापनाविहारो द्रव्यविहारो भाव- *
गाथा ९७४-९७८ साधर्मिकस्य निक्षेपाः
५१९ (A)
१. "पि वाच्यम् - वा. पु. मु. ॥
For Private and Personal Use Only