________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५१८ (B)
.
साधर्मिकः सङ्घमध्ये एकतरः श्रमणः श्रमणी श्रावकः श्राविका चेति। लिङ्गे लिङ्गतः साधर्मिकः रयहरण-मुहपोत्तित्ति रजोहरणमुखपोत्तिकायुक्तः ॥ ९७५ ॥ सम्प्रति दर्शनादिसाधर्मिकानाहदसण-णाणे चरणे, तिगपणपण तिविह होइ उ चरित्ते। दव्वादी तु अभिग्गह, अह भावणमो अणिच्चाई ॥ ९७६ ॥ दर्शनत: साधर्मिकः तिगत्ति त्रिविधः, तद्यथा-क्षायिकदर्शनिनः क्षायिकदर्शनी, औपशमिकदर्शनिनः औपशमिकदर्शनी, क्षायोपशमिकदर्शनिनः क्षायोपशमिकदर्शनी। अन्ये पुनराहुरेवं त्रिविधः, तद्यथा-सम्यग्दृष्टेः सम्यग्दृष्टिः, मिथ्यादृष्टेः मिथ्यादृष्टिः, मिश्रस्य मिश्रः। ज्ञानतः साधर्मिकः पणत्ति पञ्चविधः। तद्यथा-आभिनिबोधिकज्ञानी आभिनिबोधिकज्ञानिनः, एवं श्रुतावधि-मनःपर्यायकेवलेष्वपि भावनीयम्। चरणतः साधर्मिकः पणत्ति पञ्चप्रकारः, तद्यथा- सामायिकचारित्रिणः सामायिकचारित्री। एवं छेदोपस्थापनपरिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातेष्वपि वाच्यम्। तिविहो होइ उ चरित्ते इति त्रिविधः त्रिप्रकारो भवति, चारित्रे चारित्रतः साधर्मिकः, तद्यथा-क्षायिकचारित्री क्षायिक
गाथा
९७४-९७८ साधर्मिकस्य निक्षेपाः
५१८ (B)
For Private and Personal Use Only