________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५१८ (A)
नामम्मि सरिसनामो, ठवणाए कट्ठकम्ममादीसु। दव्वम्मि जो उ भविओ, साहम्मिसरीरगं चेव॥ ९७४ ॥
नाम्नि नामविषये साधर्मिकः यः सदृशनामा, यथा देवदत्तो देवदत्तस्य। स्थापनया साधर्मिकः काष्ठकर्मादिषु स्थाप्यमानः, यथा वारत्तर्षिः, आदिशब्दात् पुस्तकर्माऽक्षवराटकादिपरिग्रहः। द्रव्ये द्रव्यरूपतया साधर्मिको यो भव्यः-भावी, स च त्रिप्रकारः। तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च। अमीषां च भावना द्रव्यभिक्षुवद्भावनीया। यच्च साधर्मिकशरीरं व्यपगतजीवितं सिद्धशिलातलादिगतं तद् द्रव्यसाधर्मिकः। द्रव्यता चास्य भूतभावत्वात् ॥९७४ ॥ क्षेत्र-काल-प्रवचन-लिङ्गसाधर्मिकानाह
गाथा खेत्ते समाणदेसी. कालम्मि उ एक्ककालसंभतो।
९७४-९७८
साधर्मिकस्य पवयणसंघेगयरो, लिंगे रयहरण-मुहपोत्ती ॥ ९७५॥
निक्षेपाः क्षेत्रे क्षेत्रतः साधर्मिक: समानदेशीयः, यथा सौराष्ट्रः सौराष्ट्रस्य। काले कालतः ||
५१८ (A) साधर्मिक: एककालसम्भूतो यथा वर्षाजातो वर्षाजातस्य। प्रवचनमिति प्रवचनतः
For Private and Personal Use Only