________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः ७२९ (B)
तिवरिसे एगट्ठाणं, दोन्नि उ ठाणा उ पंचवरिसस्स। सव्वाणि विकिट्ठो, पुण वोढुं चाएति ठाणाइं ॥ १५२२ ॥ त्रिवर्षे त्रिवर्षपर्यायस्य एकमेवोपाध्यायलक्षणं स्थानमनुज्ञातम्, न द्वितीयमाचार्यत्वलक्षणमपि, तस्याल्पपर्यायतया प्रभूतखेदसहिष्णुत्वाभावेनाऽऽचार्यपदयोग्यताया अभावात्। पञ्चवर्षस्य पञ्चवर्षपर्यायस्य द्वे स्थानेऽनुज्ञाते, तद्यथा-उपाध्यायत्वमाचार्यत्वं च, बहुतरवर्षपर्यायतया खेदसहतरत्वात्। 'विकृष्टः' अष्टवर्षपर्यायः पुनः सर्वाण्यपि स्थानानि वोढुं शक्नोति बहुतमवर्षपर्यायत्वात्। ततस्तस्य सूत्रेणोपाध्यायत्वमाचार्यत्वं गणित्वं प्रवर्तित्वं स्थविरत्वं गणावच्छेदित्वं चानुज्ञातम् ॥ १५२२॥
अथ कथं सर्वाणि यथोक्तानि स्थानानि वोढुं शक्नोति ? तत आहनोइंदि-इंदियाणि य, कालेण जियाणि तस्स दीहेण। कायव्वेसु बहूसु य, अप्पा खलु भावितो तेणं ॥ १५२३ ॥
गाथा ४१५१७-१५२३
पर्यायेण पदधारणयोग्यता
७२९ (B)
For Private and Personal Use Only