________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७२९ (A)|
किं केन प्रकारेण पुनरत्राधुना एवं निर्विकृतिकादिमात्रेण शोधिर्भवति ?। सूरिराहयथा पूर्वासु पूर्वकालभाविनीषु पुष्करिणीष्वतिप्रभूतजलपरिपूर्णासु वस्त्राणि शुद्धयन्ति स्म, एवं पश्चिमास्वपि अधुनातनकालभाविनीषु शुद्धयन्ति, तथा शोधिरपि पूर्वमिवेदानीमपि भवतीति १३ ॥ १५२०॥
एवं दृष्टान्तानभिधाय दार्टान्तिकयोजनामाहएवं आयरियादी, चोद्दसपुव्वादि आसि पुट्विं तु। एण्हिं जुगाणुरूवा, आयरिया हुंति नायव्वा ॥ १५२१ ॥
एवमनन्तरोदितदृष्टान्तकदम्बकप्रकारेण यद्यपि पूर्वमाचार्यादयश्चतुर्दशपूर्वधरादय || आसीरन् तथापीदानीमाचार्या उपलक्षणमेतत् उपाध्यायादयश्च युगानुरूपाः दशा-कल्प
|१५१७-१५२३ व्यवहारधरादयः तपो-नियम-स्वाध्यायादिषूद्युक्ताः, द्रव्य-क्षेत्र-काल-भावोचितयतनापरायणा
पदधारणयोग्यता भवन्ति ज्ञातव्याः ॥ १५२१॥
सम्प्रति यावत्पर्यायस्य यावन्ति स्थानानि सूत्रेणानुज्ञातानि तस्य तावन्त्यसम्मोहार्थमुपदिदर्श- ७२९ (A) यिषुराह
गाथा
पर्यायेण
For Private and Personal Use Only