________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः ७२७ (B)
न्तर्गतायां पिण्डैषणायामपि सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते, सोऽपि च भवति तादृश इति ६॥ १५१४॥
उत्तराध्ययनदृष्टान्तं भावयतिआयारस्स उ उवरिं, उत्तरज्झयणाओ आसि पुट्विं तु। दसवेयालिय उवरिं, इयाणि किं ते न होती उ ॥ १५१५ ॥ दारं ७ ।
पूर्वमुत्तराध्ययनानि आचारस्य आचाराङ्गस्योपर्यासीरन् इदानीं दशवैकालिकस्योपरि, तथापि किं तानि तथारूपाणि न भवन्ति ? भवन्त्येवेति भावः७ ॥१५१५ ॥ वृक्षदृष्टान्तभावनामाह
मत्तंगादीतरुवर, न संति इण्डिं न होंति किं रुक्खा ?। दारं ८। महजूहाहिव दप्पिय, पुव्विं वसभा ण पुण इण्हिं ॥ १५१६ ॥ दारं ९। *
पूर्वं सुषमसुषमादिकाले मत्तङ्गादयो दशविधाः तरुवराः कल्पद्रुमा आसीरन् , इदानीं ते न सन्ति। किन्त्वन्ये चूतादयः, ततः किं ते वृक्षा न भवन्ति? तेऽपि वृक्षा भवन्तीति
गाथा |१५१०-१५१६
दृष्टान्ताः कालपरिवर्तने
७२७ (B)
For Private and Personal Use Only