________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७२७ (A)
शस्त्रपरिज्ञादृष्टान्तमाहपुव्वं सत्थपरिण्णा अधीय-पढियाए होउवट्ठवणा। इण्हिं छज्जीवणिया किं सा उ न होउवट्ठवणा ? ॥ १५१३ ॥ दारं ५। .
पूर्वं शस्त्रपरिज्ञायाम् आचाराङ्गान्तर्गतायाम् अधीतायाम् अर्थतो ज्ञातायां पठितायां सूत्रत उपस्थापनाऽभूत्, इदानीं पुनः सा उपस्थापना किं षड्जीवनिकायां दशवैकालिकान्तर्गतायामधीतायां पठितायां च न भवति ? भवत्येवेत्यर्थः ५॥१५१३॥
पिण्डदृष्टान्तभावनामाहबितियम्मि बंभचेरे, पंचम उद्देस आमगंधम्मि। सुत्तम्मि पिंडकप्पी, इह पुण पिंडेसणाए उ ॥ १५१४ ॥ दारं ६।
पूर्वमाऽऽचाराङ्गान्तर्गते लोकविजयनाम्नि द्वितीयेऽध्ययने यो ब्रह्मचर्याख्यः पञ्चम : उद्देशकस्तस्मिन् यद् आमगन्धिसूत्रं "सव्वामगंधं परिण्णाय निरामगंधं परिव्वए" [सूत्र२] इति तस्मिन् सूत्रतोऽर्थतश्चाधीते पिण्डकल्पी आसीत्, इह इदानीं पुनर्दशवैकालिका
गाथा १५१०-१५१६
दृष्टान्ताः कालपरिवर्तने
७२७ (A)
For Private and Personal Use Only