________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७२८ (A)
भावः८ । वृषभदृष्टान्तभावनार्थमाह- महजूहाहिव इत्यादि, पूर्वं वृषभा महायूथाधिपा दर्पिकाः श्वेताः सुजाताः सुविभक्तशृङ्गा आसीरन् न पुनरिदानी ते तथाभूता सन्ति किन्तु बहुवर्णा मन्दरूपतराः प्रायोऽल्पशक्तिकाश्च तथापि ते वृषभा भवन्ति वृषभकार्यकरणात् ॥ १५१६ ॥
अधुना गोदृष्टान्तभावनार्थमाहपुव्विं कोडीबद्धा, जूहा ऊ नंदगोवमाईणं। इण्हिं न संति ताई, किं जूहा ते न होंती उ ॥ १५१७ ॥ दारं १०।।
पूर्वं नन्दगोपादीनां गवां यूथाः कोटीबद्धाः कोटीसङ्ख्याका आसीरन्, इदानीं ते तथाभूता न सन्ति, किन्तु पञ्चदशादिगोसङ्ख्याकाः, ततः किं ते यूथा न भवन्ति? भवन्त्येवेति
गाथा भाव:१० ॥१५१७ ॥
४१५१७-१५२३ अधुना योधदृष्टान्तभावनामाह
पर्यायेण साहस्सीमल्ला खलु, महपाणां पुव्व आसि जोहा उ।
पदधारणयोग्यता तत्तुल्ल नत्थिए ण्डिं किं ते जोहा न होंती उ? ॥ १५१८ ॥ दारं ११। : ७२८ (A) १. ०णा आसिपुव्व जोहा ३ - इति गुरुतत्त्व वि. । १-१६२।
For Private and Personal Use Only