________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय
उद्देशक:
७२६ (A)
***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वं सुषमसुषमाकाले यादृश्यः पुष्करिण्यो जम्बूद्वीपप्रज्ञप्तौ वर्ण्यन्ते इदानीं न तादृश्यः, तथापि च ता अपि पुष्करिण्यो भवन्ति, कार्याणि च ताभिः क्रियन्ते ॥१५०९ ॥
आचारप्रकल्पानयनाहरणमाह
आयारपकप्पो ऊ, नवमे पुव्वम्मि आसि सोधी ।
तत्तो च्चिय 'निज्जोढुं इहाऽऽणितो सोहि किं न भवे ? ॥ १५१० ॥ दारं २ |
आचारप्रकल्पः पूर्वं नवमे पूर्वे आसीत्, शोधिश्च ततोऽभवत्, इदानीं पुनः इह आचाराङ्गे तत एव नवमात्पूर्वान्निर्यूह्यानीतः, ततः किमेष आचारप्रकल्पो न भवति किं वा तत: - शोधिर्नोपजायते ? एषोऽप्याचारप्रकल्पः, शोधिश्चास्माद् विशिष्टा भवतीति भावः २ ॥१५१० ॥ अधुना स्तेनकदृष्टान्तभावनार्थमाह
१ निज्जूढो इहा सर्वासु वृत्ति प्रतिषु । ला. संस्करणेपि निज्जूढो इधा इति ॥ २. इहाऽऽणितो किं न सुद्धिभवे ? वा. पु. । इहाऽऽणितो इण्हि किं न भवे ? खं खंभा जेभा । इहाऽऽणितो इह [स] किं न भवे ? मो. ।
For Private and Personal Use Only
गाथा १५१०-१५१६ दृष्टान्ताः कालपरिवर्तने
७२६ (A)