________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उक्त सङ्ग्रहकुशलः । उपग्रहकुशलमाह
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
७२२ (A)
बालाऽसहवुडढेसु, संत तवकिलंत वेयणाऽऽतंके। सेज्ज-निसेज्जोवहि-पाणासणभेसज्जुवग्गहिए ॥ १४९७ ॥ दाण-दवावण-कारावणेसु करणे य कयमणुण्णाए। उवहितमणुवहितविही जाणाहि उवग्गहं एयं ॥ १४९८ ॥
बालाऽसह-वृद्धेषु, तथाप्रभूतमार्गगमनतः पठनतो वा श्रान्तेषु, तपःक्लान्तेषु, तथा 18 वेदनायां सामान्यतः शरीरपीडायां जातायाम्, आतड्के च सद्योघातिनि रोगे समुत्पन्ने । शय्यावसतिः निषद्या-पीठफलकादिरूपाः, उपधि:-कल्पादिरूपः, पानं- द्रवम्, अशनमोदनादि, भैषजमौषधम् औपग्रहिकं- दण्डप्रोञ्छनाद्युपकरणम्, एतेषां समाहारो द्वन्द्वः, तस्मिन् , सप्तमी षष्ठ्यर्थे, ततोऽयमर्थः- एतेषां स्वयं दाने, अन्यैर्दापने, तथा वैयावृत्त्यादेः-कारापणे करणे च, तथा कयमणुण्णाए इति परैः कृतस्यानुज्ञायां यत्प्रवर्त्तनम् तथा य उपहितविधिर्यश्चानुपहितविधिः, तत्रोपहितविधिर्नाम- यद् आचार्यैर्वितीर्णं तदाचार्यमनुज्ञाप्यान्येषां साधूनां
गाथा १४९७-१५०३
उपग्रहकुशलादयः
७२२ (A)
For Private and Personal Use Only