________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७२१ (B)
सम्भोजनं नाम यत्सम्भोगेन योजयति साम्भोगिकैः सहैकत्र भुङ्क्ते इति। तथा यद्यस्य कारकमुपकारकं भक्तं तदात्मना गृहीत्वा तस्मै ददाति। एवमेवोपधिरपि यो यस्योपकारकस्तं स्वयमुत्पाद्य तस्मै ददाति। एतेन “सम्भोगे भत्तोवही"[गा. १४९०] इति व्याख्यातम्। परस्परमेकत्र संवासः सुप्रतीतत्वान्न व्याख्यातः ॥ १४९५ ॥
अणुकरणं सिव्वणलेवणादि अण्णभासणा उ दुम्मेहो। एरिसो तस्स निसग्गो, जं भणियं एरिससहावो ॥ १४९६ ॥
अनुकरणं नाम सीवन-लेपनादि स्वयं कञ्चित्कुर्वन्तं दृष्ट्वा इच्छाकारेणानुज्ञाप्य करोति। तथा दुर्मेधसि स्वयं सीवन-लेपनादिकर्तुमजानति स्वयं तावत् करोत्येव, किन्त्वन्यानपि * भाषते, यथा- कुरुत एतस्य महानुभागस्येति एतत्कारापणम् ईदृशस्तस्यानुकरणे कारापणे ४१४९१-१४९६ च निसर्गः स्वभावः। जं भणियं ति, किमुक्तं भवतीत्यर्थः ईदृशस्वभावः अनुकरणकारापणस्वभावः ।।१४९६॥
गाथा
सङ्ग्रहकुशल:
७२१ (B)
१. मनुजानाति - मु.॥
For Private and Personal Use Only